|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.174. अध्यायः 174
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
बृहस्पतिना युधिष्ठिरंप्रति पश्चात्तापादेर्ब्राह्मणेभ्योऽन्नदानस्य च पापपरिहारोपायत्वकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयाऽनघ।
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतांवर॥ 13-174-1(88408)
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम्।
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम्॥ 13-174-2(88409)
बृहस्पतिरुवाच। 13-174-3x(7376)
कृत्वा पापानि कर्माणि अधर्मवशमागतः।
मनसा विपरीतेन निरयं प्रतिपद्यते॥ 13-174-3(88410)
मोहादधर्मं यः कृत्वा पुनः समनुतप्यते।
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम्॥ 13-174-4(88411)
[यथायथा मनस्तस्य दुष्कृतं कर्म गर्हते।
तथातथा शरीरं तु तेनाधर्मेण मुच्यते॥ 13-174-5(88412)
यदि व्याहरते राजन्विप्राणां धर्मवादिनाम्।
ततोऽधर्मकृतात्क्षिप्रमपवादात्प्रमुच्यते॥] 13-174-6(88413)
यथायथा नरः सम्यगध्रममनुभाषते।
समाहितेन मनसा विमुच्येत तथातथा।
भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात्॥ 13-174-7(88414)
दत्त्वा विप्रस्य दानानि विविधानि समाहितः।
मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते॥ 13-174-8(88415)
प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर।
नरः कृत्वाऽप्यकार्याणि ततो धर्मेण युज्यते॥ 13-174-9(88416)
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम्।
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता॥ 13-174-10(88417)
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते।
अन्ने प्रतिष्ठितो लोकस्तस्मादन्नं प्रशस्यते॥ 13-174-11(88418)
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः।
अन्नस्य हि प्रदानेन स्वर्गमाप्नोति मानवः॥ 13-174-12(88419)
न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम्।
स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना॥ 13-174-13(88420)
यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शतं दश।
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत्॥ 13-174-14(88421)
ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ।
नरोऽधर्मात्प्रमुच्येत योगेष्वभिरतः सदा॥ 13-174-15(88422)
भैक्ष्येणान्नं समाहृत्य दद्यादन्नं द्विजेषु वै।
सुवर्णदानात्पापानि नश्यन्ति सुबहून्यपि॥ 13-174-16(88423)
दत्त्वा वृत्तिकरीं भूमिं पातकेनापि मुच्यते।
पारायणैश्च वेदानां मुच्यते पातकैर्द्विजः॥ 13-174-17(88424)
गायत्र्याश्चैव लक्षेण गोसहस्रस्य तर्पणात्।
वेदार्थं ज्ञापयित्वा तु शुद्धान्विप्रान्यथार्थतः॥ 13-174-18(88425)
सर्वत्यागादिभिश्चैव मुच्यते पातकैर्द्विजः।
सर्वातिथ्यं परं ह्येषां तस्माद्दानं परं स्मृतम्॥ 13-174-19(88426)
अहिंसन्ब्राह्मणस्वानि न्यायेन परिपाल्य च।
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति॥ 13-174-20(88427)
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः।
तेनापोहति धर्मात्मन्दुष्कृतं कर्म पाण्डव॥ 13-174-21(88428)
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम्।
वैश्योऽददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते॥ 13-174-22(88429)
अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम्।
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते॥ 13-174-23(88430)
औरसेन बलेनान्नमर्जयित्वाऽविहिंसकः।
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि पश्यति॥ 13-174-24(88431)
न्यायेनैवाप्तमन्नं तु नरो हर्षसमन्वितः।
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते॥ 13-174-25(88432)
अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः।
सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते॥ 13-174-26(88433)
`शूद्रान्नं नैव भोक्तव्यं विप्रैर्धर्मपरायणैः।
आपद्येव स्वदासानां भोक्तव्यं स्वयमुद्यतैः॥ 13-174-27(88434)
दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः।
ते हि प्राणस्य दातारस्तेभ्यो धर्मः सनातनः॥ 13-174-28(88435)
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम्।
कार्यं पात्रागतं नित्यमन्नं हि परमा गतिः॥ 13-174-29(88436)
अन्नस्य हि प्रदानेन नरो रौद्रं न सेवते।
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम्॥ 13-174-30(88437)
यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा।
अवन्ध्यं दिवसं कुर्यादन्नपानीयदानतः॥ 13-174-31(88438)
भोजयित्वा दशशतं नरो वेदविदां नृप।
न्यायविद्धर्मविदुषामितिहासविदां तथा॥ 13-174-32(88439)
न याति नरकं घोरं संसारांश्च न सेवते।
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम्॥ 13-174-33(88440)
एवं सुखसमायुक्तो रमते विगतज्वरः।
रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते॥ 13-174-34(88441)
एतत्ते सर्वमाख्यातमन्नदानफलं महूत्।
मूलमेतत्तु धर्माणां प्रदानानां च भारत॥ ॥ 13-174-35(88442)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः॥ 117 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-174-12 प्रदानेन रन्तिदेवो दिवं गतः इति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|